संस्कृते स्त्रीप्रत्ययाः अष्टविधाः - टाप्, ङीप्, ङीष्, ङीन्, डाप्, चाप्, ति, ऊङ्ग् चेति ।
१) टाप् - अत्र 'आ' इति भवति -
अज: - अजा, चटकः - चटका, बालः - बाला, क्षत्रियः - क्षत्रिया, ----
२) ङीप् - क) ऋकारान्तानां शब्दानाम् -
दाता - दात्री, कर्ता - कर्त्री, गन्ता - गन्त्री, ----
ख) नकारान्तानाम् (इन्) -
ज्ञानी - ज्ञानिनी, कामी - कामिनी, तेजस्वी - तेजस्विनी, ----
ग) शतृप्रत्ययान्तानाम् -
गच्छन् - गच्छन्ती, हसन् - हसन्ती, कुर्वन् - कुर्वती, ----
घ) वतुप्/मतुप् प्रत्ययान्तानाम् -
धनवान् - धनवती, गुणवान् - गुणवती, ----
श्रीमान् - श्रीमती, शक्तिमान् - शक्तिमती, ----
ङ) केषाञ्चन अकारान्तानां स्वाभाविकरूपेण हि ङीप् भवति -
चोरः - चोरी, मृगः - मृगी, तरुणः - तरुणी, देवः - देवी, ----
३) ङीष् -
क) गौरादिभ्यः ।
गौरः - गौरी, नर्तकः -नर्तकी, हरिणः - हरिणी, नटः - नटी, पितामहः - पितामही, शूद्रः - शूद्री, गोपः - गोपी, ----
ख) लघुः - लघ्वी, बहुः - बह्वी, रात्रिः - रात्री, (अन्यथा रात्रिरेव), ------
ग) आनुक् (आन्) + ङीष् -
वरुणः - वरुणानी, भवः - भवानी, आचार्यः - आचार्यानी, इन्द्रः - इन्द्राणी, -----
(क्तिन्-प्रत्ययान्ताः स्त्रीलिङ्गे भवन्ति -
भक्तिः, मतिः, गतिः, शक्तिः, नीतिः, रीतिः ----)
४) ङीन् (ई) -
नरः - नारी, वेदः - वेदी, ---
५) ति -
युवन् - युवती ----
६) डाप् (आ) -
सीमन् - सीमा, बहुराजन् - बहुराजा, पामन् - पामा, -----
७) ऊङ्ग् (ऊ) -
कुरुः - कुरूः, श्वशुरः - श्वश्रूः, पङ्गुः - पङ्गूः, ----
८) चाप् (आ) -
सूर्यः - सूर्या, --- इत्यादीनि स्त्रीप्रत्ययान्तशब्दानां कानिचन उदाहरणानि सन्ति ।